नमस्तस्मै विवेकायानन्दमात्रस्वरूपिणे।
रामकृष्णसुशिष्याय भारतध्वजवाहिने।।१
शिकागोभाषणार्थं य आहूतो धर्मसंसदि।
भारतभूप्रतिष्ठाय नमस्तस्मै सुमानिने।।२
वेदान्तज्ञानवैपुल्यं जीवितं येन मेधसा।
सुमुनये नमस्तस्मै विवेकाख्याय मूर्तये।।३
विश्वधर्मसभायां यो भगिन्यो भ्रातरो मम।
इति सम्बोधनं दत्वा सर्वान्व्यस्मापयन्मुदा।।४
भारतीया इयं रीतिः सर्वे ते मम बान्धवाः।
इत्युक्त्वा सहजं तेन स्थापितः वेदवाग्विभुः।।५
नरेन्द्रेण विवेकेन स्वविवेकैः सुशिक्षिताः।
युवानो भारतीया ये गीताज्ञानसमन्विताः।।६
साम्प्रतं कलिकाले यत्ख्यापितं तेन सुन्दरम्।
तदेव संस्कृतेर्मूलं वसुधैव कुटुम्बकम्।।७
महता रामकृष्णेन प्राप्य यज्ज्ञानसागरम्।
विवेकाख्ये पुनः तेन नः बोधार्थं प्रतिष्ठितम्।।८
स्वामिविवेकसम्पन्न आनन्दः बङ्गनन्दनः।
नो नन्दयितुं ज्ञानाज्जायते वसुधातले।।९
युवानः पुरुषाः नार्यः भारतभूमिरक्षकाः।
विवेकानन्दसिद्धान्तं पालयन्तु सदा मुदा।।१०
भारतीया जनाः सर्वे कालेस्मिन्युद्धसम्भवे।
विवेका धर्मयोद्धारः वाञ्छन्ति धर्मरक्षणम्।।११
संस्कृति चतुर्वेदी
शोधच्छात्रा
साहित्य-विभागः
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली।