नौम्यहं पार्वतीशम्

आदिं यन्नैव जाने कथमपि भुवने जीवनादिं समेषां
नान्तं जाने विजाने मम खलु नियतिस्तत्र गन्तुं प्रवृत्ता।
माध्यस्थ्यं जीवनस्य प्रभवति मयि यत्तस्य मध्यं न जाने
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।१

कैलाशे कन्दरायां कनकशतरुचा दीप्तिमन्तं महेशं
ध्यानस्थं ध्यानगम्यं धवलघनरुचिं धूर्जटिं धैर्यमूर्तिं
ध्यायन्ती धैर्यभावाद्धिमगिरिदुहिता यं पतिं तं गिरीशं
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।२

कैलाशस्थं हृदिस्थं नगपतिदुहितुः जीवितुं लक्ष्यमेकं
देवाः विज्ञाय देवं मदनमतिबलं प्रेषयाञ्चक्रिरे ते।
कोपाद्भग्ने समाधौ रतिपतिमरणं रौद्ररूपं दधानं
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।३

कामक्रोधावसाने परमकरुणयाभ्यर्च्यमानामुमां तां
गौरीं गौराङ्गदेहां गजवदनसमां धूम्रवर्णामपर्णां।
सम्पश्यन्नीलकण्ठः कतिचनदिवसान् व्यापयामास यस्तं
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।४

हैमाभां भ्राजमानां हिमगिरितनयां क्लिष्टतुण्डां सुवीक्ष्य
देवर्षिर्नारदस्तामतिगहनवने साधनायां निमग्नाम्।
श्रीकण्ठं ध्यानमूलं प्रमुदितवचसाऽबोधयद्यं शिवं तं
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।५

शब्दैराश्वासयन्स प्रमथगणपतिः पार्वतीं दत्तदृष्टिः
पाणिं ते स्वीकरिष्ये हिमगिरितनये पार्वति प्रेमरूपे।
इत्युक्त्वा देवदेवः स्मितयुतवपुषा भावयन्प्रेम यस्तं
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।६

आलक्तं पादयोर्यन्मणिखचितनवं नूपुरं पादमूले
काञ्चीशाटी कटौ यत्कनकशतयुतं हारचन्द्राभमूलम्।
पश्यन्तं वामदेवं स्फटिकमणियुतौ कङ्कणौ यत्करौ तां
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।७

सिन्दूरं पूरयन्तं श्रुतिविधिसहितं पार्वतीकेशवेशे
देव्यां दाक्षिण्ययुक्तं सुरगणमुनिभिर्वन्द्यमानं गिरीशं
काशीस्थं विश्वनाथं स्मरहरसुभगं सँल्लसन्तं सतीशं
माङ्गल्यम्मे विधातुं रुचिरनववरं नौम्यहं पार्वतीशम्।।८

संस्कृति चतुर्वेदी
शोधच्छात्रा
साहित्य-विभागः
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली।

error: Content is protected !!