भारतीयां निजां भूमिं रक्षितुं दत्तजीवनम्।
सुभाषचन्द्रबोसाख्यं तं नमामि महामतिम्।।१
नेताजीति नाम्ना यः सुप्रसिद्धः महामतिः।
तस्मै नमः सुयोद्धाय भारतस्य सुमेधसे।।२
तदानीं बङ्गराज्यस्य वासिनं राष्ट्रगौरवम्।
कटके लब्धजन्मानं सुभाषं तं नमाम्यहम्।।३
आजादहिन्दसेनायाः निर्मातारं सुनायकम्।
स्वातन्त्र्यवीरयोद्धारं नेतारं तं नमाम्यहम्।।४
शोणितं देहि त्वं मह्यं दास्याम्यहं स्वतन्त्रताम्।
उद्घोषो घोषितो येन तं नमामि सुसैनिकम्।।५
जानकीनाथबोसस्य प्रभावत्याः सुपुत्रकः।
भारतस्य सुतः श्रीमान्राष्ट्रगौरववर्द्धकः।।६
स्वातन्त्र्यस्य सुस्वप्नं दर्शितं येन तेजसा।
दर्शनशास्त्रनिष्णातं नौमि लोकोपकारिणम्।।७
द्वितीये विश्वयुद्धे यद्विजितं अण्डमानकं।
निकोबाराख्यकं द्वीपं नौमि भारतगौरवम्।।८
तदानीं ताइहोकौ यो दुर्घटनामवाप्तवान्।
मृत्युं प्राप्तोथवा ह्यत्र कश्चिदस्ति कुचक्रकम्।।९
भारतीयैः जनैः सर्वैः यस्त्वादर्शः सुमानितः।
धन्यः सुभाषः धन्या सा मही भारतसंज्ञिका।।१०
पराक्रमस्य दिवसः जयन्ती यस्य मेधसः।
समानतिथिजन्मानं नित्यं नौमि तपस्विनम्।।११
संस्कृति चतुर्वेदी
शोध-छात्रा
श्री लालबहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालय,नई दिल्ली।