श्री परशुराम स्तोत्रम् : रचना- संस्कृति चतुर्वेदी 

रेणुकागर्भसंभूतं जमदग्निसुतं वरं
धर्मसंरक्षणार्थायावतीर्णं तं नमाम्यहम्।१।
शस्त्रशास्त्रप्रवीणं तं साधकं नीतिसर्जकम्।
द्विजं परशुरामं तं विनिर्लिप्तं नमाम्यहम् ।२।
मातृच्छिदं पितृभक्तमाराध्यं शिवसाधकम्
क्रोधिनं क्रोधविज्ञातं क्रोधरूपं नमाम्यहम्।। ३।
वैशाखे शुक्लपक्षे यः तृतीयायाञ्च सत्तिथौ।
धर्मसंस्थापनार्थाय ह्यागतः तं नमाम्यहम् ।४।
विष्णुषष्ठावतारो यो ब्रह्मवंशसमुद्भव:।
क्षत्रियोचितनीतिज्ञो धर्मज्ञस्तं नमाम्यहम् ।५।
योगवेदादिशास्त्रज्ञं ब्रह्मास्त्रादिविशारदम्।
भागिनेयं कौशिकस्य भृगुपौत्रं नमाम्यहम् ।६।
गणेशदन्तहन्तारं हैहयजातिनाशकम्
शिवशिष्यं महाभक्तं क्षात्रं रामं नमाम्यहम् ।७।
जामदग्न्यं भृगुपतिं युद्धदक्षं जितेन्द्रियम्।
सीतापरिणयाधारं दीप्तं रामं नमाम्यहम्।।८
कार्तवीर्यमहाशत्रुं रैणुकेयं तपस्विनम्।
भृगुगोत्रसमुत्पन्नं भार्गवं प्रणमाम्यहम्।९।
मंदराचलवास्तव्यं शिवरागानुरागिणम्।
भृगुनाथं महावीरं रामं तं प्रणमाम्यहम् ।१०।
धर्मसंरक्षणार्थाय कटिबद्धं सुयोगिनम्।
रामं क्षात्रगुणोपेतं सश्रद्धं प्रणमाम्यहम्।।११

शोध छात्रा‌ साहित्य विभाग

श्री लालबहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालय नई दिल्ली

error: Content is protected !!